🔥 Burn Fat Fast. Discover How! 💪

वेदोक्त श्री गणपति पूजन (२) सुशान्तिर्भवतु।श्रीमन्महागणाधिपत | सनातन धर्म • Sanatan Dharma

वेदोक्त श्री गणपति पूजन (२)


सुशान्तिर्भवतु।श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः।उमामहेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः।शचीपुरन्दराभ्यां नमः । मातापितृभ्यां नमः।इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः।ग्राम देवताभ्यो नमः । वास्तुदेवताभ्यो नमः।स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः।सर्वेभ्यो ब्राह्मणेभ्यो नमः। विश्वेशं माधवं दुण्ढि दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
अभीप्सितार्थसिद्धयर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः ॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽनिङ्घ्रियुगंस्मरामि ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नितयाभियुक्तानां योगक्षेमं वहाम्यहम् ॥
स्मृते सकलकल्याणभाजनं यत्र जायते ।
पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥
सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः॥

इस प्रकार मङ्गल पाठ के अनन्तर पवित्रीयुक्त हाथ में जल, अक्षत और द्रव्य लेकर निम्नांकित मंत्र पढ़ते हुए संकल्प करें।

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्री ब्रह्मणोऽह्नि द्वितीये परार्द्धे श्री श्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे युगे कलियुगे कलिप्रथमचरणे भूलों के जम्बूद्वीपे भारत वर्षे भरतखण्डे आर्यावर्तान्तर्गतेकदेशे अमुकनगरे अमुकग्रामे स्थाने वा बौद्धावतारे अमुकनामसंवत्सरे श्री सूर्ये अमुकायने अमुकर्ती महामाङ्गल्यप्रदमासोत्तमे मासे अमुकमा अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकराशिस्थितेषु देवगुरौ शेषेषु ग्रहेषु च यथा यथा - राशिस्थानस्थितेषु सत्सु एवं ग्रहगुणगण-विशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्र: अमुकशर्मा (अमुकवर्मा अमुकगुप्तः ) अहं ममात्मनः श्रीमहागणपतिप्रीत्यर्थं यथालब्धोपचारैस्तदीयं पूजनं करिष्ये ।

इस प्रकार संकल्प पढ़कर हस्तगत जलाक्षत-द्रव्य किसी भूमिगत पात्र में छोड़ दें। तत्पश्चात गणपति पूजन आरम्भ करें। सबसे पहले निम्नांकित श्लोकों के अनुसार गणेश के स्वरूप का चिन्तन करते हुए उनका आवाहन करें।

आवाहन

हे हेरम्ब त्वमेोहि ह्यम्बिकात्र्यम्बकात्मज ।
सिद्धिबुद्धिपते त्र्यक्ष लक्षलाभ पितुः पितः ॥
नागास्यं नागहारं तवां गणराजं चतुर्भुजम् ।
भूषितं स्वायुधैर्दिव्यैः पाशाङ्कुशपरश्वधैः ॥
आवाहयामि पूजार्थं रक्षार्थं च मम क्रतोः ।
इहागत्य गृहाण त्वं पूजां यागं च रक्ष मे ॥
ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति हवामहे निधीनां त्वा निधिपति हवामहे वसो मम ॥
आहमजानि गर्भध्मा त्वमजासि गर्भधम् ॥
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः, गणपतिमावाहयामि स्थापयामि ।

प्रतिष्ठापन

आवाहन के पश्चात् देवता का प्रतिष्ठापन करें।

ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोतवरिष्टं यज्ञसमिमं दधातु ।
विश्वेदेवास इह मादयन्तामो इह प्रतिष्ठ ।।
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥
सिद्धिबुद्धिसहित गणपते सुप्रतिष्ठतो वरदो भव ।

आसन अर्पण

इसके बाद निम्नलिखित मंत्र पढ़कर दिव्य सिंहासन की भावना से पुष्प अर्पित करें
विचित्ररत्नरचितं दिव्यास्तरणसंयुतम् ।
स्वर्णसिंहासनं चारुगृह्णीष्व सुरपूजित ॥
ॐ पुरुष एवेद सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः आसनं समर्पयामि ।

इसके बाद निम्नांकित मंत्र से गणेश जी के पाद प्रक्षालन के लिये पाद्य अर्पित करें

ॐ सर्वतीर्थसमुद्धतं पाद्यं गन्धादिभिर्युतम ।
विघ्नराज गृहाणेदं भगवन् भक्तवत्सल ॥
ॐ एतावानस्य महिमातो जयायांश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, पादयोः पाद्यं समर्पयामि ।

(क्रमशः)

@Sanatan