Get Mystery Box with random crypto!

वेदोक्त श्री गणपति पूजन (३) -------------------------------- | सनातन धर्म • Sanatan Dharma

वेदोक्त श्री गणपति पूजन (३)
--------------------------------


अर्घ्यदान

तदनन्तर गन्ध आदि से युक्त अर्घ्यजल अर्पित करें और निम्नांकित मंत्र पढ़ें

ॐ गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणाकर ।
अर्घ्यं च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम् ॥
ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, हस्तयोरर्घ्यं समर्पयामि ।

आचमनीय-अर्पण

इसके अनन्तर गंगाजल से आचमन करायें और नीचे लिखे मंत्र का उच्चारण करें

विनायक नमस्तुभ्यं त्रिदशैरभिवन्दित ।
गङ्गोदकेन देवेश कुरुष्वाचमनं प्रभो ॥
ॐ ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद् भूमिमथो पुरः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, मुखे आचमनीयं समर्पयामि ।

स्नानीय समर्पण

तदनन्तर नीचे दिये हुए मंत्र को बोलकर गंगाजल से स्नान कराने की भावना से स्नानीय जल अर्पित करें

मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम् ॥
ॐ तस्माद्यज्ञात्सर्वहुतः सम्भूतं पृषदाज्यम् ।
पशूंस्तांश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ।।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, सर्वाङ्गे स्नानं समर्पयामि ।

पञ्चामृत स्नान

इसके बाद नीचे लिखे मंत्र को पढ़कर पंचामृत से गणपतिदेव को स्नान करायें

पञ्चामृतं मयाऽनीतं पयो दधि घृतं मधु ।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ पञ्च नद्यः सरस्वतीमपियन्ति सस्त्रोतसः ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः पञ्चामृत स्नानं समर्पयामि ।
पञ्चामृतस्नानान्ते शुद्धोदकस्त्रानं समर्पयामि ।

इसके बाद दूध दही आदि से पृथक् पृथक् स्नान कराकर शुद्ध जल से भी स्नान कराना चाहिये। दूध से स्नान कराने के लिए मंत्र निम्नलिखित है


पयः स्नान

कामधेनु समुद्धतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥
ॐ पयः पृथिव्याम्पय औषधीषु पयो दिव्यन्तरिक्षे पयोधाः । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, पयः स्नानं समर्पयामि ।
पयः स्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

दधि स्नान

पयसस्तु समुद्धतं मधुराम्लं शशिप्रभम् ।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वरय वाजिनः ।
सुरभि नो मुखा करत् प्राण आयुषि तारिषत् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, दधिस्त्रानं समर्पयामि।
दधिस्त्रानान्ते शुद्धोदकस्नानं समर्पयामि ॥

घृत-स्त्रान

नवनीतसमुत्पन्नं सर्व संतोषकारकम् ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥
ॐ घृतं मिमिखे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम। अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, घृतस्त्रानं समर्पयामि । घृतस्नानान्ते शुद्धोदकस्त्रानं समर्पयामि ।।

मधु-स्त्रान

पुष्परेणुसमुद्धतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ।।
मधुनक्तमुतोषसो मधुमत्त् पार्थिव रजः ।
मधु द्यौरस्तु नः पिता ।।
मधुमानो वनस्पतिर्मधुमाँs अस्तु सूर्यः ।
माध्वीर्गावो भवन्तु नः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, मधुस्नानं समर्पयामि ।
मधुस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।

शर्करा - स्नान

इक्षुसारसमुद्भूता शर्करा पुष्टिदा शुभा ।
मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् ॥
ॐ अपारसमुद्वयस सूर्ये सन्त समाहितम् ।
अपाँ रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः शर्करास्त्रानं समर्पयामि ।

इसके बाद सुगन्धित इत्र या अन्य द्रव्य (अल्कोहल रहित) आदि अर्पित करें

माङ्गलिक स्नान (सुवासित तैल या इत्र)

चम्पकाशोकबकु लमालतीमोगरादिभिः ।
वासितं स्त्रिग्धाहेतुतैलं चारु प्रगृह्यताम् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः सुवासितं तैलं समर्पयामि।

शुद्धोदक स्नान

तदनन्तर गंगाजल या तीर्थ जल से शुद्ध स्नान करायें।
गङ्गा च यमुना चैव गोदावरी सरस्वती ।
नर्मदा सिन्धुः कावेरी स्नानार्थं प्रतिगृह्यताम् ॥
ॐ आपोहिष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
महेरणाय चक्षसे ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, शुद्धोदकस्त्रानं समर्पयामि ।

वस्त्र - समर्पण

शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् ।
देहालंकरणं वस्त्रमतः शान्तिः प्रयच्छ मे ॥
ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः ।
तं धीरासः कवय उन्नयन्ति स्वाध्योऽ मनसा देवयन्तः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, वस्त्रं समर्पयामि ।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः आचमनं समर्पयामि ।

(क्रमशः)

@Sanatan