🔥 Burn Fat Fast. Discover How! 💪

वेदोक्त श्री गणपति पूजन (४) ---------- उपवस्त्र (उत्तरीय) समर | सनातन धर्म • Sanatan Dharma

वेदोक्त श्री गणपति पूजन (४)
----------

उपवस्त्र (उत्तरीय) समर्पण

उत्तरीयं तथा देव नानाचित्रितमुत्तमम् ।
गृहाणेदं मया भक्त्या दत्तं तत् सफलीकुरु ॥
ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः ।
वासो अग्ने विश्वरूप संव्ययस्व विभावसो ।।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः उपवस्त्रं समर्पयामि तदन्ते आचमनीयं समर्पयामि ।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः वस्त्रोपवस्त्रार्थे रक्तसूत्रं समर्पयामि ।

अलंकरण

ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः अलंकरणार्थमक्षतान् समर्पयामि ।

यज्ञोपवीत समर्पण

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दत्तं गृहाण परमेश्वर ॥
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्रय्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः यज्ञोपवीतं समर्पयामि ।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः आचमनं समर्पयामि।

गन्ध

श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥
ॐ त्वा गन्धर्वा अखनस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान्यक्ष्मादमुच्यत ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः गन्धं समर्पयामि ।

अक्षत

ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ।।

ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, अक्षतान् समर्पयामि ।

पुष्प माला

माल्यादीनि सुगन्धीनि माल्यादीनि वै प्रभो ।
मयाहृतानि पुष्पाणि गृह्यन्तां पूजनाय भोः ॥
ॐ औषधीः प्रतिमोदध्वं पुष्पवृतीः प्रसूवरीः ।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्णवः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः पुष्पमालां समर्पयामि ।

मन्दारपुष्प

वन्दारु जनमन्दार मन्दारप्रिय धीपते ।
मन्दारजानि पुष्पाणि श्वेतार्कादीन्युपेहि भोः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः मन्दारपुष्पाणि समर्पयामि ।

शमी पत्र

त्वत्प्रियाणि सुपुष्पाणि कोमलानि शुभानि वै ।
शमीदलानि हेरम्ब गृहाण गणनायक ॥
ॐ य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ।
शमीभिर्यज्ञमाशत ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, शमीपत्राणि समर्पयामि ।

दूर्वाङ्कुर

दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक ॥
ॐ काण्डात्काण्डात् प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दूर्वे प्रतनु सहस्त्रेण शतेन च ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः दूर्वाङ्कुरान् समर्पयामि।

सिन्दूर

सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम ।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥
ॐ सिन्धोरिव प्राध्वने शूघनासो वानप्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दर्मिभिः पिन्वमानः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः सिन्दूरं समर्पयामि ।
नाना परिमलद्रव्य, अबीर - चूर्ण नानापरिमलैर्द्रव्यैर्निर्मितं चूर्णमुत्तमम् ।
अबीरनामकं चूर्ण गन्धढ्यं चारु गृह्यताम् ।।
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमासं परिपातु विश्वतः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, नानापरिमलद्रव्याणि समर्पयामि ।

दशाङ्ग धूप

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आर्घेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान्धृर्वति तं धूर्वयं वयं धूर्वामः ।
देवानामसि वह्नितम सस्त्रितमं पप्रितमं जुष्टतमं देवहूतमम् ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः धूपमाघ्रापयामि ।

दीप-दर्शन

साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रेलोक्यतिमिरापहम् ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद् घोराद्दीपज्योतिर्नमोऽस्तु ते ॥
ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा ।
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा । ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, दीपं दर्शयामि।

नैवेद्य-निवेदन

नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ।
ईप्सितं मे स्वरं देहि परत्र च परां गतिम् ॥
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥
ॐ नाभ्या आसीदन्तरिक्ष शीष्ण द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽ अकल्पयन् ॥
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ समानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ व्यानाय स्वाहा ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, आचमनीयं मध्ये पानीयं उत्तरापोशनं च समर्पयामि

करोद्वर्तन के लिये चन्दन

ॐ चन्दनं मलयोद्भूतं कस्तूर्यादिसमन्वितम् ।
करोद्वर्तनकं देव गृहाण परमेश्वर ॥
अशुना ते अंशुः पृच्यतां परुषा परुः ।
गनधस्ते सोममवतु मदाय रसो अच्युतः ॥ ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः,चन्दनेन करोद्वर्तनं समर्पयामि ।

क्रमशः

@Sanatan