Get Mystery Box with random crypto!

वेदोक्त श्री गणपति पूजन (५) -------------------------------- | सनातन धर्म • Sanatan Dharma

वेदोक्त श्री गणपति पूजन (५)
--------------------------------



पूंगीफलादिसहित ताम्बूल - अर्पण

ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो ऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, मुखवासार्थ मेलापूंगीफलादिसहितं ताम्बूलं समर्पयामि।

नारिकेलफल - अर्पण

इद फलं मया देव स्थापितं पुरतस्तव।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्तव हसः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः नारिकेलफलं समर्पयामि ।

दक्षिणा समर्पण

हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
ॐ हिरण्यगर्भः समवर्त्तताग्रे भूतस्यजातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, ।
कृतायाः पूजायाः साद्गुण्यार्थं द्रव्यदक्षिणां समर्पयामि ।

नीराजन या आरार्तिक ( आरती )

कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥
ॐ इदं हविः प्रजननं मे अस्तु, दशवीर सर्वगण स्वस्तये ॥ आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ।
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ॥
आ रात्रि पार्थिव रजः पितुरप्रायि धामभिः ।
दिवः सदा सि बृहती तिष्ठस आ त्वेषं वर्तते तमः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, कर्पूरनीराजनं समर्पयामि ॥

पुष्पाञ्जलि समर्पण

नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मया दत्ता गृहाण परमेश्वरं ।।
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
ॐ गणानां त्वा गणपति हवामहे प्रियाणां त्वा प्रियपति हवामहे निधीनां त्वा निधिपति हवामहे वसो मम।
आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् काम कामाय मह्यं कामेश्वरो वैश्रवणो ददातु ॥ कुबेराय वैश्रवणाय महाराजाय नमः ।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुषान्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराडिति तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आवीक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ।
ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । साम्बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन् देव एकः ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः, मंत्रपुष्पाञ्जलिं समर्पयामि ।

प्रदक्षिणा

यानि कानि च पापानि ज्ञाताज्ञातकृतानि च ।
तानि सर्वाणि नश्यन्ति प्रदक्षिणपदे पदे ॥
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषाँ सहस्त्रयोजनेऽव धन्वानि तन्मसि ॥
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः प्रदक्षिणां समर्पयामि।

विशेषा-समर्पण

तदनन्तर जल, गन्ध, अक्षत, फल, दूर्वा और दक्षिणा एक ताम्र पात्र में रखकर दोनों घुटनों को पृथ्वी पर टेककर उक्त अर्घ्य पात्र को दोनों हाथों की अंजलि में लें और उसे मस्तक से लगाकर निम्नांकित श्लोकों को पढ़ते हुए श्री गणपति को अर्ध्य दें

रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक ।
भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ॥
अनेन सफलार्येण सफलोऽस्तु सदा मम ।
ॐ सिद्धिबुद्धिसहिताय महागणपतये नमः विशेषार्घ्यं समर्पयामि ।

विशेषार्ध्य देने के पश्चात् निम्नाकित श्लोक पढ़कर प्रार्थना करें

विछेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय । विद्याधराय विकटाय च वामनाय भक्त प्रसन्नवरदाय नमो नमस्ते ॥
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः ।
नमस्ते रुद्ररूपाय करिरूपाय ते नमः ॥
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे ।
भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
त्वां विघ्नशत्रुदलनेति च सुन्दरे ति भक्तप्रियेति सुखदेति फलप्रदेति ।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव ॥
गणेशपूजने कर्म यन्यूनमधिकं कृतम् ।
तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥
अनया पूजया सिद्धिबुद्धिसहितो महागणपति: प्रीयतां न मम ।
शिव शासनत: शिव शासनत:
@Sanatan